नागपुरनगरे स्वातन्त्र्यदिनोत्सवस्य अवसरे राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकेन मोहनभागवतेन नूतनसन्तते: छात्रैः सह संवादः कृतः। सः अवदत् यत् युवानः एव राष्ट्रस्य महती शक्तिः सन्ति। यदि युवभ्यः सम्यक् मार्गदर्शनम् अवसराः च प्रदीयन्ते, तर्हि ते देशस्य अमूल्यनिधिः भविष्यन्ति। किन्तु समुचितदिशायाः अभावे एषा युवशक्तिः समाजोपरि भारभूता भवितुम् अर्हति। सः संविधानस्य, संस्कृतेः, विधीनां च मर्यादापालनम् आह्वयत्। भागवतमहोदयः न्यवेदयत् यत् ऐक्यभावेन समन्वयेन च एव राष्ट्रस्य भविष्यम् उज्ज्वलं भविष्यति, अतः अस्माभिः परस्परं सम्बद्धाः भूत्वा देशोत्थानाय कार्यं करणीयम्।





















