Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मंगलवासरे रात्रौ प्रायः १०.१५ वादने दिल्ली-एनसीआर-नगरे भूकम्पाः अनुभूताः। एकस्मिन् मासे तृतीयवारं देहलीनगरे कम्पाः अनुभूता:। न केवलं देहल्याम् अपि तु उत्तरप्रदेश-पञ्जाब-जम्मूकश्मीर-उत्तराखण्ड-बिहारराज्येषु अपि भूकम्पानुभूतिः जाता। भूकम्पस्य केन्द्रं अफगानिस्तानदेशे एव अभवत्। अफगानिस्तान-पाकिस्तान-कजाकिस्तान-चीनदेशेषु अपि भूकम्पाः अनुभूता:।

भूकम्पस्य कम्पनस्य अनन्तरं जनाः आतङ्किताः स्वगृहात् बहिः आगताः । कथ्यते यत् भूकम्पस्य कम्पाः कतिपयान् निमेषान् यावत् अनुभूता:।

अद्यतनवार्ता

भारतम्

विश्वम्