Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-पाकिस्तानयोः मध्ये शनिवासरे (१० मे २०२५) युद्धविरामस्य घोषणा जाता। भारतस्य ओपरेशन् सिन्दूर इत्यस्यानन्तरं द्वयोः देशयोः मध्ये निरन्तरं आक्रमणं प्रत्याक्रमणं च चलत् आसीत्। काले‍ऽस्मिन् पाकिस्तानेन भारतस्य अनेकस्थानेषु ड्रोन्-क्षेपणास्त्रै: आक्रमणानि कृतानि, यानि भारतीयसेनया विफलाः कृता:। भारतस्य आक्रमणेन पाकिस्ताने अपि महानाश: जात: अस्ति। भारतस्य सामर्थ्यस्य पुरत:, अन्ताराष्ट्रियप्रभावेन च पाकिस्तानस्य सैन्यसञ्चालनमहानिदेशक: (DGMO) स्वयमेव युद्धविरामस्य कृते याचनां कृतवान् आसीत्।

अस्मिन् विषये विदेशमन्त्री एस जयशङ्करः ट्विट्टर माध्यमेन सन्देशं दत्तवान् यत् भारतं पाकिस्तानं च युद्धविरामाय सहमतौ। भारतदेश: आतङ्कवादस्य सर्वस्वरूपं प्रति सर्वदा दृढ: अचल: च अस्ति, आतङ्कवादविरुद्धं भारतस्य प्रतिक्रिया तथैव भविष्यति। डीजीएमओ स्तरस्य अग्रिमवार्ता मे १२ दिनाङ्के मध्याह्ने १२ वादने भविष्यति। विदेशमन्त्रालयस्य सूत्रानुसारं सिन्धुजलसन्धिः स्थगित: एव भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्