Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्जाब-हरियाणा-उत्तरप्रदेशराज्यानां कृषकाः न्यूनतमसमर्थनमूल्यस्य (MSP) प्रत्याभूतिं दातुं विधिनिर्माणसहितनां विविधयाच्ञानां कृते राष्ट्रव्यापिविरोधं आरब्धवन्तः। आन्दोलनकारिणः आरक्षकदलेन सह अपि संघर्षं कृतवन्तः। यस्मिन् बहवः क्षतिग्रस्ताः अभवन्। वीथिषु आन्दोलनकारिणां आन्दोलनस्य कारणात् सामान्यजनानाम् अपि समस्या: जायन्ते। अद्य आन्दोलनस्य द्वितीयः दिवसः अस्ति। कृषकाः दिल्लीं प्रति मार्गयात्रायाः पूर्णतया सज्जतां कृतवन्तः। आन्दोलनस्य कारणात् सीमासु बहु विरोध: दृश्यते। पञ्जाबे सर्वकारेण ड्रोन्-यानेन अश्रु-वायु-निपातनं प्रतिषिद्धम् अस्ति। एतेन पञ्जाब-हरियाणाराज्ययो: पुलिसदलयो: मध्ये अपि यातायात-सुरक्षा-शांति-सम्बद्ध: संघर्ष: दृश्यते। 

केन्द्रीयमन्त्री कृषकैः सह विडियोसम्मेलनद्वारा सभाम् अकरोत्। गोष्ठ्या: अनन्तरं राजपुरात: कृषकनेता जगजीतसिंह: डल्लेवाल, सरवनसिंह: पंढेर पत्रकारसम्मेलनम् अकुरुताम्। केन्द्रसर्वकारात् चर्चाया: कृते पत्रं प्राप्तम् इति सः अवदत्। श्वः केन्द्रसर्वकारेण सह वार्तालाप: भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्