Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इरानदेशेन अमेरिकीराष्ट्रपते: डोनाल्डट्रम्पस्य विरुद्धं प्रतिशोध: व्यापारिणा एलोन् मस्क इत्यनेन सह कृत:। इरानदेशस्य संसदि एलोन् मस्कस्य स्टारलिङ्क्-इत्यस्य उपग्रहीय-अन्तर्जाल-सेवाया: उपरि देशे प्रतिबन्ध: उद्घोषित: । संसदि उक्तं यत् स्टारलिङ्क् देशे अनुमतिं विना कार्यं कुर्वन् आसीत्, देशस्य सार्वभौमत्वं च संकटे अस्ति।

प्राप्तविवरणानुसारं संसदा न केवलं अन्तर्जालसेवा अपितु अनुज्ञापत्ररहित-इलेक्ट्रॉनिक-सञ्चार-यन्त्राणां उपयोगः अपराधः इति विधि: निर्मित: अस्ति यस्य अन्तर्गतं अपराधिने कारावासस्य दण्ड: भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्