Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भूतपूर्वस्य सांसदस्य राहुलस्य लोकसभासदस्यतापकर्षणप्रकरणे रविवासरे काङ्ग्रेसपक्षेण देशे सर्वत्र अभूतपूर्वस्य सत्याग्रहस्य आह्वानं कृतमस्ति। सर्वेषु राज्येषु मण्डले प्रखण्डस्तरे च महात्मागान्धिनः प्रतिमायाः सम्मुखे प्रातः १० वादनात् आरभ्य दलस्य सर्वे नेतारः कार्यकर्तारः च प्रदर्शनं कुर्वन्तः सन्ति। सत्याग्रहे भागं ग्रहीतुं दलस्य अध्यक्ष: मल्लिकार्जुनखडगे महासचिवः प्रियङ्का गान्धी च दिल्लीनगरस्य राजघाटं प्राप्तवन्तौ।

सत्याग्रहे प्रियंकागान्धी प्रधानमन्त्रीं लक्ष्यीकृत्य अवदत् “अधुना यावत् वयं मौनीभूताः आस्म।  भवान् अस्माकं परिवारस्य अपमानं कुर्वन् आसीत्। मम भ्राता उक्तवान् - अहं त्वां न द्वेष्मि। अस्माकं विचारधारा भिन्ना अस्ति। अहं प्रष्टुम् इच्छामि यत् भवन्तः कियत् अपमानं करिष्यन्ति। मम विरुद्धमपि अभियोगं स्थापयन्तु, वस्तुतः सत्यं एतत् अस्ति यत् देशस्य प्रधानमन्त्री कातर: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्