Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राहुलगान्धी रायबरेलीतः स्वनामाङ्कनं कृतवान्। तेन सह सोनियागान्धी, भगिनी प्रियङ्कागान्धी, रोबर्टवाड्रा च उपस्थिताः आसन्। नामाङ्कनान्तरं राहुलः “X”- इत्यत्र लिखितवान् - “एषः मम कृते भावुकं क्षणमासीत् । मम माता महता विश्वासेन परिवारकार्यं दत्वा सेवायाः अवसरं दत्तवती। अमेठी रायबरेली च मम कृते भिन्नं नास्ति। अहं प्रसन्नः अस्मि यत् ४० वर्षाणि यावत् निर्वाचनक्षेत्रस्य सेवां कृतवान् किशोरीलालः अमेठीतः दलस्य प्रतिनिधित्वं करिष्यति। अन्यायविरुद्धं प्रचलति न्याययुद्धे अहं प्रियजनानाम् स्नेहम् आशीर्वादं च याचे।” 

अद्यतनवार्ता

भारतम्

विश्वम्