Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये  विश्वविद्यालयस्य प्रशासनिकस्य भवनस्य अन्नपूर्णासभागारे 

अशैक्षणिककर्मयोगिबन्धूनां कृते प्रशासनिकगुणवत्तायां दक्षतां आनेतुं प्रशिक्षणकार्यक्रमस्य आयोजनं कृतम्। कुलपते: आचार्यविजयकुमार सीजीवर्यस्य अध्यक्षतायाम् एवञ्च कुलसचिवस्य डॉ.दिलीपसोनी महोदयस्य  मार्गदर्शने  प्रशिक्षणमिदं अभूत्। बेंगलुरुत: आगता संस्कृतस्य आधुनिकी  विद्याया: च विदुषी आचार्या शिवानी वी. महोदया प्रशिक्षणं प्रदत्तवती। कार्यक्रमस्य प्रस्तावना डॉ. शुभम्शर्ममहोदय: ज्योतिर्विज्ञानविभागाध्यक्ष:

प्रस्तुतवान्। आचार्या शिवानी महोदया  प्रशिक्षणं यच्छन् उक्तवती यत्  प्रशासनिकविभाग:  संस्थाया: महत्त्वपूर्णविभाग: भवति प्रशासनिकानि कार्याणि यदा दक्षतया सह क्रियन्ते तदा गुणवत्तायां संवर्धनं स्वाभाविकं भवति।  महोदयया क्रमशः स्थापनाविभाग;, वित्तम्,  ग्रंथालय: ,परीक्षा, प्रवेश: , शोधम् , निर्माणम्, इत्यादिनां  विभागानां  कुशलतापूर्वकं संचालनार्थं प्रभाविप्रशिक्षणं दत्तवती। अस्मिन् अवसरे विश्वविद्यालयस्य वित्ताधिकारी श्रीदिनेशचौरसियामहोदय: अपि  कार्यक्रमं संबोधितवान्। कार्यक्रमस्य संचालनं श्रीमहेंद्र-उपाध्यायमहोदयेन आभारप्रदर्शनञ्च डॉ.उपेंद्रभार्गव महोदयेन कृतम्। 

वार्ताहर: - डॉ.दिनेश चौबे,उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्