Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मई मासस्य ३१ दिनाङ्के निर्जला-एकादशी तथा गायत्रीजयन्ती अपि च जूनमासस्य प्रथमे दिनाङ्के  गुरुप्रदोषः अस्ति।

निर्जला एकादशी /  पाण्डवभीमसेनीएकादशी ।

निर्जला एकादशी मे ३१ दिनाङ्के अस्ति। शास्त्रविवरणानुसारं  निर्जला-एकादशी अर्थात् वर्षस्य सर्वासां एकादशीनां पुण्यफलं अस्मिन् दिने प्राप्तुं शक्यते। पाण्डवेषु भीमेन अयं व्रतम् आचरितम् आसीत्। अत एव व्रतमिदं पाण्डवभीमसेनी एकादशी अपि कथ्यते। अस्मिन् तिथौ जलपानं परित्यज्य फलदक्षिणापूर्वकं शुद्धजलपूरितं कलशं ब्राह्मणेभ्यः दीयते येन महत् पुण्यं प्राप्यते। अस्मिन् दिने देशस्य विभिन्नेषु स्थानेषु शीतलजलस्य पेयव्यवस्था कल्प्यते। 

गायत्रीजयंती - वेदमातु: प्राकट्यदिनम् 

धार्मिकग्रन्थानुसारं ज्येष्ठमासस्य शुक्लपक्षस्य दशमे दिने गायत्रीदेव्याः प्रादुर्भावः अभवत् । सा वेदमाता उच्यते अर्थात् सर्वे वेदाः तस्याः उत्पन्नाः। सा भारतीयसंस्कृतेः माता इति अपि उच्यते । अस्मिन् वर्षे अयं उत्सवः मे-मासस्य ३१ दिनाङ्के बुधवासरे अस्ति। मातु: गायत्र्या: पूजनेन कामपूर्तिः भवति। तस्मै कस्यापि अभावः भवति। अथर्ववेदानुसारं गायत्रीदेवी वयः, आयुः, जनः, पशुः, यशः, धनं, ब्रह्मवर्चस् इत्येतेषां वर्धनं भवति।

गुरुप्रदोष: शुभ-समृद्धिप्रदायकं व्रतम्

त्रयोदश्यां यत् व्रतं आचर्यते तत् प्रदोषव्रतम् अपि कथ्यते। एतत् शिवस्य प्रियं व्रतम् अस्ति। तत्रापि ज्येष्ठमासे यत् प्रदोषव्रतं भवति तस्य विशेषमहत्त्वम् अस्ति इति मन्यते। यदि अयं दिवसः गुरुवासरः अस्ति तर्हि गुरुप्रदोषस्य संयोगः भवति तत् अतीवलाभप्रदं, शुभं समृद्धिवर्धकं च।

प्रदोषतिथिदिने सूर्यास्तसमये कैलाशपर्वते रजतभवने महादेव नृत्यं करोति, देवताः तस्य स्तुतिं गायन्ति इति विश्वासः अस्ति । प्रदोषव्रतस्य पालनेन प्रत्येकं दोषं समस्यां च दूरीकृतं भवति इति अपि विश्वासः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्