तमिलगीतकारस्य कवे: च वैरामुथु इत्यस्य कथनेन कोलाहलः आरब्धः। भारतीयजनतादलेन तस्य उग्रविरोध: कृत: अस्ति। एकस्मिन् कार्यक्रमे कविः वैरमुथुः कम्बारामायणं (दक्षिणभारते लोकप्रियं महाकाव्यं) उल्लिख्य उक्तवान् यत् सीतायाः विरहकारणात् राम: नष्टविवेक: जात: आसीत्। स: न जानाति स्म यत् स: किं करोति इति । अतः भारतीयदण्डसंहितायां (IPC) धारा ८४ इत्यस्य अन्तर्गतं मानसिक अस्थिरतायाः कारणेन केनापि कृतं कार्यं अपराधः न मन्यते। कम्बनस्य न्यायस्य ज्ञानं न स्यात्, परन्तु सः समाजं मानवमनः च सम्यक् जानाति स्म।