Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूसदेशे ८.७ तीव्रताया: भूकम्पस्य अनन्तरं बहवः देशाः कम्पनस्य स्थितिं पश्यन्त: सन्ति। त्रिष्वपि रूस-जापान-अमेरिका-देशेषु सुनामी-सञ्चेतना उद्घोषिता अस्ति, जापानदेशे १६ स्थानेषु सुनामी-उग्रसमुद्रतरङ्गा: प्रविष्टा: इति सूचनाः प्राप्यन्ते। हवाई-चिली-जापान-देशेषु सोलोमनद्वीपेषु च सुनामी-स्थितिः उत्पन्ना इति प्रशान्त-जागरुकता-केन्द्रं वदति। सुनामीप्रभावेण समुद्रे ४० से.मी.उच्चतरङ्गाः दृष्टाः। इशिनोमाकी-खाते समुद्रे पञ्चाशत् से.मी.-उच्चतरङ्गाः दृष्टाः । जापानदेशस्य होक्काइडो-नगरे अपि सुनामी-तरङ्गाः दृष्टाः।

अद्यतनवार्ता

भारतम्

विश्वम्