Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हिमाचलप्रदेशस्य कुल्लूमण्डले गुरुवासरे प्रातः ३० निमेषेष्वेव सप्त भवनानि पतितानि। दुर्घटनायामस्यां कस्यापि क्षतिः इति वार्ता नास्ति। प्रशासनेन एतानि भवनानि दिनत्रयमेवपूर्वम् रिक्तानि कृतानि आसन्। अत्र जनानां आवागमनं प्रतिषिद्धम् आसीत्। राज्ये गत २४ घण्टेषु वर्षासम्बद्धेषु घटनासु द्वादश जनाः मृताः। तेषु मण्डी-शिमला-नगरयोः भूस्खलनेन ७ जनानां मृत्युः अभवत् । एतदतिरिक्तं बहूनि गृहाणि नष्टानि, ४०० मार्गाणि च अवरुद्धानि अभवन्। कुल्लू-मनाली-राजमार्गः अपि अतिवृष्ट्या निरुद्धः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्