Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आविश्वे सम्प्रति संस्कृतदिवसमालक्ष्य सर्वत्र संस्कृतसप्ताहस्य आचरणं विविधसंस्थासु संस्कृतज्ञै: विधीयमानं वर्तते। संस्कृतभारतीकानपुरप्रान्तस्य बाँदाजनपदस्य विभिन्नसंस्थासु तथा महाविद्यालयेषु संस्कृतसप्ताहस्य आयोजनं कार्यकर्तार: कुर्वन्ति। अस्मिन्नुपक्रमे प्रथमदिवसे बाँदाजनपदस्थ डाॅ. दयानन्द-एग्लो-वैदिक-इण्टर-कालेज इत्यस्मिन् विद्यालये श्रीजानकीशरणशुक्लवर्य: तथा च श्रीमान् जितेन्द्रद्विवेदीवर्य: विद्यालयीयछात्रै: सह मिलित्वा गीतापाठं कृतवन्त:। अथ च द्वितीये दिवसे अद्य पण्डितजवाहर-लाल-नेहरू-इण्टर-कॉलेज विद्यालये श्रीमान् शिवपूजनवर्याणां सानिध्ये संस्कृतसप्ताहोपलक्ष्ये संस्कृतकार्यक्रम: आयोजित:। पुनश्च वृह्मविज्ञान-इण्टर-कालेज इत्यस्मिन् विद्यालये प्रधानाचार्य: आचार्यशिवदत्तत्रिपाठिमहाशय: स्वीयोद्बोधने कथितवान् यत् "भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती" इति अत: अस्माभि: सर्वे: संस्कृतम् अध्येतव्यम्। छात्रा: संस्कृतगीतानि श्लोकान् च पठितवन्त: । अवसरेऽस्मिन् श्रीगिरजेशमिश्र: सञ्चालनं तथा श्री अरुणकुमारसिंह: , कमलेशकुमार:, श्यामनिगम इत्यादय: शिक्षका: सहयोगमाचरितवन्त:। तृतीये दिवसे अतर्रा पी०जी० महाविद्यालय: अतर्रा बांदायामपि संस्कृतसप्ताहसमारोह: आयोजित: तत्र आतिथ्येन डाॅ.शिवदत्तत्रिपाठिवर्या: समुपस्थिता:। सङ्घटनस्य विभागसञ्योजकै: डॉ०रत्नेशत्रिवेदिवर्यै: स्पष्टीकृतं यत् संस्कृतसप्ताहस्य आगामि अवशिष्टदिनेष्वपि विद्यालय तथा समाजस्तरे विविधा: प्रतिस्पर्धा: छात्रेभ्य: तथा शोभायात्राया: आयोजनं कार्यकर्तार: करिष्यन्ति। सामूहिकसमारोपकार्यक्रम: अपि स्थानीयस्तरे भविता।

वार्ताहर: - आचार्यदीनदयालशुक्ल:

अद्यतनवार्ता

भारतम्

विश्वम्