Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः सम्पन्न:। उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मई मासस्य चतुर्विंशतितमे दिनाङ्के बुधवासरे विक्रमकीर्तिमन्दिरस्य सभागारे समायोजितः आसीत्। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमङ्गुभाई पटेलमहोदय: अवसरेऽस्मिन् सर्वान् शुभकामना: प्रेषितवान् समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ.  श्रीमोहनयादवमहोदय:, सारस्वतातिथिरूपेण  भारतीयान्तरिक्षानुसंधानसङ्घटनस्य ( इसरो) प्रमुख: श्रीधरसोमनाथमहोदय:, विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्, सांसद: श्रीअनिलफिरोजियामहोदय:, विधायक: श्रीपारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः , विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः इत्यादयः उपस्थिताः आसन्।  सारस्वतातिथिरूपेण विराजमानेन इसरो प्रमुखेण  श्रीधरसोमनाथमहोदयेन उक्तम् – संस्कृतं न केवलं भाषा अपि तु ज्ञानविज्ञानस्य जननी। महर्षि पाणिनि महान् भाषावैज्ञानिकः आसीत्  संस्कृतं ज्ञान-विज्ञानस्य भाषा अस्ति  इयं भारतस्य आत्मा , आर्यभट्टः, भास्करः, सुश्रुतः, चरकादिदया: अनेके वैज्ञानिका:  भारते  अभवन् इति अस्माकं गौरवम्। मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय: उक्तवान् यत्  देशे प्राचीनज्ञानविज्ञानस्य महत्त्वाधारितस्य शोधकार्यस्य आवश्यकता वर्तते । विश्वविद्यालयस्य नवीनप्रकल्पानां उच्चतमस्तरे उन्नयनाय, प्रचारप्रसाराय च वयं सङ्कल्पिता: स्म:। विश्वविद्यालयेन सह संस्कृतस्य संवर्धनम् अस्माकं कर्तव्यम् अस्ति। कार्यक्रमे अध्यक्षरूपेण उपस्थित: विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमारमेनन्महोदयेनोक्तं यत् संस्कृतं विज्ञानस्य भाषा। विश्वविद्यालय: संस्कृतस्य विकासाय प्रचारप्रसारय च  कटिबद्ध: अस्ति कुलपतिवर्येण वार्षिकं प्रतिवेदनं  छात्रान् दीक्षान्तोपदेश:  च दत्त:। 

संस्कृतविश्वविद्यालयेन विंशतिमहाविद्यालयाः सम्बद्धाः सन्ति। तेषु ९ शासकीयाः, ११ अशासकीयाः सन्ति । २०२१-२२ तमे सत्रे स्नातकस्नातकोत्तर-पत्रोपाधिपरीक्षासु उत्तीर्णाः १३९७ छात्राः उपाधिं प्राप्तवन्त:। प्रावीण्यसूच्यां प्रथमद्वितीयतृतीयस्थानप्राप्तछात्राः स्वर्ण-रजत-कांस्यपदकैः सम्मानिता: जाता: । एवञ्च विद्यावारिधिच्छात्राः अतिथीनां करकमलाभ्याम् उपाधिं प्राप्तवन्तः। तत्र  महर्षिपतञ्जलिसंस्कृतसंस्थानं भोपालं मध्यप्रदेशस्य अध्यक्षः आदरणीयः भरतबैरागीमहोदय: विश्वविद्यालयस्य माननीय; कुलपति: आचार्यविजयकुमार: सीजीवर्य: ,कुलसचिव: डॉ. दिलीपसोनीमहोदय: कार्यपरिषद् सदस्याः प्रमाणपत्रवितरणं कृतवन्तः। कार्यक्रमस्य सञ्चालनं विश्वविद्यालयस्य साहित्यविभाग प्रमुखेन  डॉ. तुलसीदास परौहामहोदयेन कृतम्। समारोहे पाणिनिविश्वविद्यालयस्य विक्रमविश्वविद्यालयस्य अध्यापकाः अधिकारिणः कर्मचारिण: पत्रकारबान्धवाश्च समुपस्थिताः आसन्। आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्।

अद्यतनवार्ता

भारतम्

विश्वम्