Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य रामपुरस्य एम.पी.-एम.एल.ए. न्यायालयेन अयोग्यजन्मप्रमाणपत्रप्रकरणे समाजवादिपक्षस्य नेता आजमखानः, तस्य पत्नी तञ्जिमफातिमा, पुत्रः अब्दुल्ला-आजम चैतेभ्य: सप्तवर्षस्य कारावासस्य दण्ड: दत्तः। तदनु राजनीतिषु विषयोऽयम् चर्चास्पद: अभवत्। विषये‍ऽस्मिन् समाजवादिपक्षस्य प्रमुखः अखिलेशयादवः वक्तव्यं दत्तवान्। तेनोक्तं यत् आजमखानः अन्यधर्मस्य अस्ति, अतः अन्यायः भवति। स: मुसलमानः अत: तस्य विरुद्धं षडयन्त्रं रचितम् अस्ति। ज्ञातव्यं यत् रामपुरस्य सांसद-विधायकदण्डाधिकारी शोभित बंसस्य न्यायालयेन २०१९ तमस्य वर्षस्य अयोग्यजन्मप्रमाणपत्रप्रकरणे ते गृहीता: आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्