Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य गाजियाबादस्य एबीईएस अभियांत्रिकी महाविद्यालये सांस्कृतिककार्यक्रमस्य समये जयश्रीरामस्य उद्घोषं कुर्वन् एकः छात्र: महिलाप्राध्यापिकया मञ्चात् अवतारित:। अस्मिन् विषये चलचित्रं प्रसरितम् तदनुमहिला प्राध्यापिका निलम्बिता अस्ति। मञ्चे “जय श्री राम” इति वदत: छात्रस्य उपरि महिला प्राध्यापिका रुष्टा। सा मञ्चसमीपं गत्वा छात्रस्य वचनस्य विरोधं कुर्वती तं मञ्चात् अवतरितुं उक्तवती। छात्रः अवदत् यत् पूर्वं प्रेक्षकाणां कश्चन जय श्री रामः इति उक्तवान्। तदनन्तरं सः प्रत्यवदत्। एतस्या घटनाया: चलचित्रं प्रसरितम् अधुना एबीईएस महाविद्यालयस्य प्रबन्धनद्वारा प्राध्यापिका ममता गौतम: डॉ श्वेता शर्मा च निलम्बिते।

अद्यतनवार्ता

भारतम्

विश्वम्