Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिनेभ्य: पश्चिमभारतं पीड्यमान: बिपरजॉय इति चण्डवात: गतसायं ०६:३० वादने जखौखातं प्राप्त:। आशङ्कानुसारमेव एतेन गुजरातस्य कच्छप्रदेशे सौराष्ट्रप्रदेशे च महती हानि: कृता अस्ति। वायो: अत्यधिकेन वेगेन अनाधारवर्षया च समग्रं जीवनं प्रभावितम् जातम् अस्ति। 

उत्तुङ्गा: दृढा: महीरुहा: महीग्रस्ता:। ९ मण्डलानां ४४२ ग्रामा: अत्यधिका: प्रभाविता:। भुज-माण्डवी-लखपत-नलिया-ओखा-राधनपुर-दियोदर-वाव-मोरबीस्थानेषु अत्यधिक: प्रभाव:। प्रायश: २६३ मार्गा: पीहिता:। ४६०० ग्रामा: अन्धकारमया:। नैकानि वाहनानि नष्टानि। रेलयानानि अन्यत् परिवहनं च स्थगितम्। सहस्रश: विद्युत्स्तम्भा: धराशायिन:। सहस्रश: जना: आश्रयस्थानेषु बद्धा:। नैकेषु जनपदेषु विद्यालयेशु अवकाश: उद्घोषित:। तन्त्रस्य पूर्वसज्जताकारणात् नैके जना: रक्षिता:। मरुभूमौ सर्वत्र जलम्। न केवलं सौराष्ट्रयो: अपि तु गुजरातस्य अन्यजनपदेषु राजस्थानस्य नैकेषु स्थानेषु एतस्य प्रभाव: दृश्यते। चक्रवातस्यानन्तरं महत्या: वृष्टे: समस्या। 

अद्यतनवार्ता

भारतम्

विश्वम्