Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य नवनिर्मितयो: योगेश्वरश्रीकृष्णयोगभवनमहर्षिसान्दीपनिभवनयो: लोकार्पणं जातम्। द्वाविंशे तमे दिनाङ्के शुक्रवासरे सायंकाले विश्वविद्यालयस्य देवासमार्गस्थे परिसरे प्रदेशस्य उच्चशिक्षामन्त्रिण: डॉ. मोहनयादवमहोदयस्य करकमलाभ्यां  लोकार्पणविधि:  सुसम्पद्यत।  लोकार्पणसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन, दीपदीपनेन च जातः। तदनु  वैदिकमङ्गलाचरणं, सरस्वतीवन्दना विश्वविद्यालयस्य कुलगानञ्च अवभत्। अथितिनां स्वागतं विश्वविद्यालयस्य कुलपतिवर्येण, कुलसचिवमहोदयेन कृतम्। कार्यक्रमे  मुख्यातिथिरूपेण विराजमानेन उच्चशिक्षामंत्रीमहोदयेन उक्तं यत् पाणिनिसंस्कृतविश्वविद्यालयस्य सर्वविधविकासाय  शासनं कृतसङ्कल्पितो वर्तते। प्रदेशे विभिन्ननगरेषु अस्य  परिसरा: संस्थापनीया: यतोहि संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। संस्कृतं ज्ञानविज्ञानस्य भाषा अस्ति। कार्यक्रमस्य अध्यक्षः विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारमेननमहोदय: आसीत्। महोदयेन उक्तं यत् संस्कृतस्य विश्वविद्यालयस्य च विकासाय  मंत्रीमहोदयस्य कृतज्ञतां विज्ञापयामि संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। विशिष्टातिथिरूपेण श्रीमतीकलावतीयादवमहोदया, सभापति:, उज्जैननगरनिगम: श्रीश्यामबंसल:, उज्जैनविकास प्राधिकरणाध्यक्ष:, कार्यपरिषद्सदस्या: श्रीमान्सुशील वाडिया, श्रीमानराजेन्द्रझालानी, डॉ.उपेन्द्रभार्गवः, डॉ.संकल्पमिश्र: च समुपस्थिताः आसन्। सञ्चालनं डॉ. तुलसीदासपारौहामहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्। कार्यक्रमेSस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या: छात्रा: शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।

(वार्तासंयोजक:-डॉ. दिनेश: चौबे)

अद्यतनवार्ता

भारतम्

विश्वम्