Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वकप-२०२३ इत्यस्मिन् भारतदलेन इतिहासः निर्मितः अस्ति। मुम्बईनगरस्य वानखेडेक्रीडाङ्गणे जातायां उपान्त्यक्रीडायां भारतेन न्यूजीलैण्डदेश: ७० धावनाङ्कै: पराजित: अस्ति। एतेन विजयेन भारतं १२ वर्षाणाम् अनन्तरं विश्वचषकस्पर्धाया:अन्तिमस्पर्धायां प्रविष्टम्। अन्तिमस्पर्धा १९ दिनाङ्के अहमदाबादस्य नरेन्द्रमोदी-क्रीडाङ्गणे भविष्यति। विराटकोहली, श्रेयस अयर् चानयो: शतकद्वयेन भारतीयदलेन ५० षट्केषु ३९७ धावनाङ्का: गृहीता:। तस्य उत्तरे किवी-दलः केवलं ३२७ धावनाङ्कान् एव प्राप्तुं अशक्नोत्। रोहितशर्मा (४७) शुभमनगील:(८०) च सम्यक् क्रीडितवन्तौ। तदनन्तरं विराट: (११७) श्रेयस् (१०५) च अपेक्षानुसारमेव भारताय उच्चतमधावनाङ्कान् अर्जितवन्तौ। क्षेपकेषु मोहम्मदशमी (७/५७) विक्रमं संस्थाप्य अपरपक्षस्य सप्त क्रीडकान् बहिर्गमनमार्गं दर्शितवान्। 

अद्यतनवार्ता

भारतम्

विश्वम्