Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जवाहरलालनेहरू विश्वविद्यालयस्य छात्रसङ्घस्य पूर्वउपाध्यक्षा शोधकर्त्री च शेहला रशीदः अद्यापि वार्तासु अस्ति। एकः समयः आसीत् यदा शेहला सर्वकारस्य भारतीयजनतादलस्य च आलोचनां कुर्वती आसीत्, परन्तु अधुना सा केन्द्रसर्वकारस्य प्रशंसाम् कुर्वती दृश्यते। तया केन्द्रसर्वकारस्य जम्मूकश्मीरे कृतानां विकासकार्याणां प्रशंसा कृता। तया उक्तं यत् कश्मीरस्य महिला: अमितशाहं प्रति कृतज्ञा: सन्ति। एएनआई इति समाचारसंस्थायाः साक्षात्कारे यदा शेहला रशीद पृष्टा यत् सा सम्प्रति कारागारे स्थितस्य उमरखालिदस्य पक्षे किमर्थं न वदति तदा शेहला अवदत् “उमर: कदापि आगङ्कवादस्य समर्थनं न कृतवान्। स: मुक्त: भवेत्।” (चित्रं पूर्वतनम्)

अद्यतनवार्ता

भारतम्

विश्वम्