Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विदेशेषु खालिस्तानसमर्थकानां भारतविरुद्धं क्रियाकलापाः निरन्तरं वर्धन्ते। अधुना खलिस्तानसमर्थकाः केनेडादेशे महात्मागान्धिनः प्रतिमां त्रोटयित्वा भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिविरुद्धं च स्प्रे-वर्णैः आपत्तिजनक-वाक्यानि लिखितवन्तः। प्राप्तविवरणानुसारं राष्ट्रपितु: महात्मागान्धिनः प्रतिमायां तैः अपमानजनकवाक्यानि अपि लिखितवन्तः। इयं प्रतिमा भारतसर्वकारेण २०१२ तमे वर्षे केनेडादेशाय उपहाररूपेण दत्ता आसीत्। प्रकरणेऽस्मिन् केनेडा्सर्वकारेण उपद्रविणां विरुद्धं कठोर-कार्यवाहीं कर्तुं आश्वासनं दत्तम् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्