Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य संस्कृत-शिक्षणप्रशिक्षण-ज्ञानविज्ञान-संवर्धनकेन्द्रस्य तत्त्वावधाने संस्कृतसप्ताहसमारोहस्य उपलक्ष्ये सप्ताहं यावत् नानाविदुषां विशिष्टव्याख्यानानि आयोज्यन्ते। अगस्तमासस्य 28-दिनाङ्कतः सितम्बरमासस्य 3 दिनाङ्कं यावत् अस्य कार्यक्रमस्य आयोजनं जातमस्ति। समारोहस्य उद्घाटनं 28 तमे दिनाङ्के अभवत्। कार्यक्रमस्य द्वितीयदिवसे आत्मनिर्भरभारतम् इति विषये विशिष्टव्याख्यानं सञ्जातम्।अस्मिन् कार्यक्रमे डॉ.अनुराधाशङ्करवर्या,अतिरिक्त पुलिसमहानिदेशिका, पुलिस मुख्यालय:, भोपालम्  मुख्यवक्तृरूपेण उपस्थिता आसीत्। महोदया अस्माकं जीवनशैल्या आत्मनिर्भरा: वयं कथं भवेयमिति आत्मनिर्भरभारतम् इति विषये अतिरुचिपूर्णं  व्याख्यानं प्रद्दतवती तस्याः विशिष्टभाषणेन सभा नितराम् उपकृता अभवत् अवसरे अस्मिन् सोमनाथसंस्कृतविश्वविद्यालयस्य कुलपति:आचार्य: सुकान्तकुमारसेनापतिवर्य: सभायामस्याम् उपस्थित:आसीत्। महोदयस्य आशीर्वचोभिः सभा प्रफुल्लिता जाता। विश्वविद्यालयस्य कुलपतिमहोदयस्य मार्गदर्शने व्याख्यानमालाया: सफलमायोजनं प्रचलत् अस्ति। अतिथिनां स्वागतं प्रस्तावकीयम् च डॉ.संकल्पमिश्र महोदयेन कृतम्। सम्पूर्णसंस्कृतसप्ताहसमारोह कार्यक्रमस्य संरक्षकः व्याख्यानसत्राणां सत्राध्यक्षश्च विश्वविद्यालयस्य माननीयकुलपतिः आचार्यविजयकुमार: सीजीवर्यः अस्ति  महोदयेन सभा सम्बोधिता संस्कृतसप्ताहसमरोहस्य शुभकामनाः  च  प्रदत्ता । कार्यक्रमसंयोजकः वेदव्याकरणविभागाध्यक्ष: डॉ.अखिलेशकुमारद्विवेदीमहोदय: वर्तते। कार्यक्रमस्य सञ्चालनं डॉ.दिनेशचौबेमहोदयेन आभारप्रदर्शनं श्रीविवेकानन्द लक्ष्मणमहोदयेन कृतम्। 

वार्तासंयोजक:-डॉ.दिनेश:चौबे

अद्यतनवार्ता

भारतम्

विश्वम्