Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अध्ययनशील: शिक्षक: उत्तम: शिक्षक:। राष्ट्रियशिक्षानीति: अपि शिक्षकप्रशिक्षणस्य महत्त्वं प्रतिपादयति। शिक्षणक्षेत्रे कार्यं कुर्वती संस्था डीपीएस-सोसायटी स्वस्य परिसर-शिक्षकाणां सर्वतो विकासाय कार्यक्रमान् कुर्वती अस्ति। तदन्तर्गतं संस्कृतशिक्षकाणां निवासीया राष्ट्रियकार्यशाला देहलीस्थिते मानवसंसाधनभवने  नवम्बरमासस्य २१-दिनाङ्कत: २५-दिनाङ्कत: समायोजिता। कार्यशालायामस्यां राष्ट्रियशिक्षानीति:, सम्प्रेषणात्मकं संस्कृतं, शिक्षणपद्धति:, व्याकरणांशा:, नवाचार:, आदर्शशिक्षणं, पाठ्योपकरणानि, पाठनसमस्या: निराकरणञ्च इत्यादिषु विषयेषु चर्चा जाता। एतदर्थं विविधसंस्थानां कृतभूरिपरिश्रमा: विद्वांस: अनुभवजन्यमार्गदर्शनं दत्तवन्त:। आगता: शिक्षका: स्वस्य सफलान् कक्षाप्रयोगान् अपि दर्शितवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्