Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

श्व: शारदीय-नवरात्रं प्रारभ्यते। गुजराते एतस्य अत्यधिकं महत्त्वमस्ति। उत्सवेऽस्मिन् गरबा नृत्यमपि विश्वप्रसिद्धम्। प्रधानमन्त्रिण: अस्मिन् महति आस्था अस्ति। उत्तम: प्रशासक: स: कविहृदय: अपि अस्ति। स: काव्यानि अपि लिखति। नरेन्द्रमोदिना लिखितस्य गरबागीतस्य अभिनेता जैकी भगनानी यु-ट्युब वाहिन्या विमोचनं कृतवान् अस्ति। गीतेऽस्मिन् भारतस्य विविधसंस्कृतिपरम्पराणां विषये वर्णनं कृतमस्ति। एतत् गरबानृत्यं ध्वनिभानुशाली द्वारा गीतमस्ति। प्रधानमन्त्रिणा मोदिना अपि X
ट्विटर् माध्यमद्वारा कृतज्ञतां ज्ञापयन् उक्तं यत् एतस्य मनमोहकप्रस्तुतये धन्यवाद:। गीतमिदं बहु वर्षेभ्य पूर्वं लिखितम् आसीत्। वर्षेभ्यः अहं किमपि न लिखितवान्, परन्तु कतिपयदिनेषु अहं नूतनं काव्यं लेखितुं समर्थः अभवम् यत् नवरात्रे अहं प्रसारयिष्यामि इति।

अद्यतनवार्ता

भारतम्

विश्वम्