Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

छत्तीसगढस्य सुकमा-बीजापुर-मण्डलयोः सीमान्तक्षेत्रे टेकलगुड़ेमक्षेत्रे मंगलवासरे नक्सलजनाः महत् आक्रमणं कृतवन्त:। सीआरपीएफ कोबरा डीआरजी च अनयो: संयुक्तदलेन सह नक्सलजनानां सङ्घर्ष: जात:। पूर्वमेव सिद्धा: नक्सलजना: अचानकम् आक्रमणं कृतवन्त:। अस्मिन् सङ्घर्षे त्रयः सैनिकाः वीरगतिं प्राप्तवन्त:, १४ सैनिकाः च व्रणिता: येषु एकस्य सैनिकस्य स्थितिः अतीव गम्भीरा इति कथ्यते।

अद्यतनवार्ता

भारतम्

विश्वम्