Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कतिपयदिनेषु विश्वे भूकम्पघटना: तीव्रगत्या वर्धन्ते, यस्मात् कारणात् विश्वजनाः भयभीता: जाता:। हरियाणाराज्ये १२ घण्टासु द्विवारं भूकम्पाः अनुभूता: यस्मिन् बुधवासरे रोहतकनगरे भूकम्पनमनुभूतम्। तेन सह गुरुवासरे अपराह्णे झज्जरनगरे मृदुभूकम्पाः अपि अनुभूताः। राष्ट्रियभूकम्पविज्ञानकेन्द्रस्य प्रतिवेदनानुसारं बुधवासरे रात्रौ १२:४६ वादने हरियाणादेशस्य रोहतकनगरे भूकम्पाः अनुभूताः। अस्य भूकम्पस्य तीव्रता ३.३ इति अभिलेखिता अस्ति। अपि च रोहतकमण्डले १० किलोमीटर् दूरे भूकम्पस्य केन्द्रम् आसीत् । मध्याह्ने १२:३४ वादने झज्जरनगरे अपि भूकम्पः अभवत् । अस्य भूकम्पस्य तीव्रता रिक्टर्-मापने २.५ इति मापिता । अस्य भूकम्पस्य केन्द्रं झज्जरतः ५ कि.मी दूरे आसीत् । हरियाणाराज्ये १० दिवसाभ्यन्तरे चतुर्थः भूकम्पः आसीत् । भूकम्पस्य कम्पनानि दिल्लीनगरे, समीपस्थेषु क्षेत्रेषु च अनुभूयन्ते स्म ।

अद्यतनवार्ता

भारतम्

विश्वम्