Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

२०१३ तमे वर्षे आरब्धा विश्वस्य प्रथमा आकाशवाणी २४/७ संस्कृतरेडियो “दिव्यवाणी”  अस्मिन् वर्षे दशमवर्षं पूर्णं करोति। अस्य संस्थापकः प्राध्यापकः डॉ. सम्पदानन्दमिश्रः इमां प्राचीनतमां भाषां न केवलं भारते अपितु सम्पूर्णे विश्वे लोकप्रियां कर्तुम् इच्छति। तेनोक्तं - “अहं संस्कृतं सर्वेषां कृते सुलभां कर्तुम् इच्छामि। 

एतत् उल्लेखनीयं यत् आकाशवाणीश्रोतारः १६० तः अधिकेभ्यः देशेभ्यः योजिता: भवन्ति। बहवः श्रोतारः स्वानुभावान् वदन्ति यत् ते आवागमनकाले यात्रायां वा एतस्य श्रवणं कुर्वन्ति एतेन संस्कृतशिक्षणं भवति, समयस्य उपयोग: च।” दिव्यवाणीद्वारा प्रदत्तानाम् आकर्षकसामग्रीणां माध्यमेन स्वसन्ततीनां संस्कृतपठनं दृष्ट्वा मातापितरौ आनन्दं प्रकटितवन्तः सन्ति। 

तस्य मतेन संस्कृतभाषा मानवचेतनायाः उन्नयनस्य अप्रतिमक्षमतायुक्ता अद्वितीया भाषा अस्ति। संस्कृतम् अस्माकं सभ्यताम् अवगन्तुं प्रबलं साधनं अस्ति। भारतस्य बालकेभ्य: बाल्यकाले एव संस्कृतस्य परिचयः अस्माकं समृद्धसंस्कृत्या सह गहनसम्बन्धस्य भावं जनयितुं पोषयितुं च शक्नोति। एषा भाषा एकाग्रता, स्मृतिः, तार्किकचिन्तनं, मौलिकचिन्तनशक्तिः, सृजनशीलता च इत्यादीनां संज्ञानात्मकक्षमतानां विकासे अद्वितीयरूपेण योगदानं ददाति। 

दिव्यवाणी संस्कृत रेडियो संस्कृतिमूलान् वैविध्यपूर्णान् कार्यक्रमान् परिवेषयति। अस्मिन् भक्तिप्रार्थनाभि: मन्त्रैः च दिवसस्य आरम्भः अपि अन्तर्भवति। सर्वजनानन्दाय बालकेभ्य: युवकेभ्य: वृद्धेभ्य: च मनोरङ्जका: शिक्षप्रदा: कथा: अपि प्रदीयन्ते। एतेन सह सङ्गीतमयानि गीतानि, सूचनाप्रदाः वार्ताः, आत्मानुभूताः काव्यपाठाः, आकर्षकानि नाटकानि, हास्यकणिका:, हास्यकथाः च समाविष्टा: सन्ति। न केवलं मनोरञ्जनाय, अपि तु संस्कृतशिक्षणाय अपि शिक्षणपाठा: सन्ति। विशिष्टमहोत्सवेषु दिव्यवाणीसंस्कृतरेडियो विशेषकार्यक्रमानाम् प्रसारणमपि करोति यथा नवरात्रे चण्डीपाठ:, गीताजयन्ती-उत्सवे सम्पूर्णस्य भगवद्गीतायाः पाठः,  रामनवम्यां रामायणपरायणम्, एवं प्रत्येकम् उत्सवे उत्सवाधारितं साहित्यं प्रसारितं भवति। 

सम्पदानन्दमिश्रमहाभागानाम् अयम् एकलप्रयास: नितरां प्रशंसनीयम् एव। कार्यपद्धते: विषये स: वदति यत् साहित्यस्य चयनं, तस्य मुद्रणं, उपारोपणम्, समयनिर्धारणं, प्रचार: प्रसार: चेति कार्यभार: तु अधिक: अस्ति तथापि संस्कृतस्य प्रचाराय अनुरागः, श्रोतृभ्य: प्राप्तै: भावात्मकप्रतिभावै: अनुभूता सन्तुष्टिः च इमां फलप्रदां यात्रां निरन्तरं कर्तुं प्रेरयति” इति। 

दिव्यवाणी रेडियो लिंक - 

http://e.radioindia.in/embed/divyavani-sanskrit-radio-456493 

https://radio.garden/visit/puducherry/a4OBG9WI 

अद्यतनवार्ता

भारतम्

विश्वम्