Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

वीरझारा इति हिन्दीचलचित्रस्य कथा इव पाकिस्तानस्य सीमा PUBG-क्रीडायाः माध्यमेन नोएडा-नगरे निवसतः सचिनस्य सम्पर्कं प्राप्तवती। क्रीडया स्नेहः समुद्भूत:। तदनन्तरं सीमा चतुर्भिः बालकैः सह नेपालं प्राप्तवती। ततः सा बसयानेन भारतम् आगत्य नोएडानगरे सचिनेन सह विवाहं कृत्वा ५० दिवसान् यावत् तत्रैव स्थितवती। यदा रहस्यं प्रकाशितं तदा सीमासचिनौ गृहीतौ। सम्प्रति उभौ प्रतिभूं प्राप्य बहिः स्तः।

घटनामिमां ज्ञात्वा पाकिस्तानप्रेमिण: जना: खिन्ना: सन्ति। बुधवासरे मुम्बई-आरक्षिदलद्वारा २६/११ सदृशं आतङ्कवादि-आक्रमणस्य भर्त्सनं प्राप्तमस्ति। कयाश्चन व्यक्त्या दूरभाषद्वारा उक्तं यत् यदि सीमा हैदरः पुनः न आगमिष्यति तर्हि भारतस्य विनाशः भविष्यति इति। २६/११ इव आक्रमणं पुनः भविष्यति। गुप्तचरसंस्थाः अस्य विषयस्य अन्वेषणं कुर्वन्ति। ततः पूर्वं जुलै-मासस्य ११ दिनाङ्के बलूचिस्तानतः आतङ्कवादीसङ्घटनेन वीडियो माध्यमेन भर्त्सना कृता आसीत् । 

अद्यतनवार्ता

भारतम्

विश्वम्