Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्रीनिर्धनकल्याण-अन्नयोजना अग्रिमेभ्य: पञ्चवर्षेभ्य: संवर्धिता इति प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। अस्या: योजनाया: अन्तर्गतं अशेषे देशे अशीति-कोटि-निर्धनजनेभ्य: प्रतिमासं पञ्चकिलोग्राममितं खाद्यान्नं नि:शुल्करूपेण प्रदास्यते। ध्यातव्यं वर्तते यत् इयं योजना अस्य वर्षस्य दिसम्बरमासे समाप्ता भविष्यति येन हि प्रधानमन्त्रिणा निर्णयोऽयं स्वीकृत:। प्रधानमन्त्रिणा कथितं यत् प्रशासनस्य ध्येयं निर्धनानां कल्याणं वर्तते। 

अद्यतनवार्ता

भारतम्

विश्वम्