Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

काङ्ग्रेसनेता राहुलगान्धी गुरुवासरे नवदिल्लीनगरस्य आनन्दविहाररेलस्थानके भारहारिजनै: सह मेलनं कृतवान्। सः तै: सह वार्तालापं कृत्वा तेषां समस्याः अपि श्रुतवान्। एतस्मिन् समये राहुलः भारवाहकस्य वेषं धारयन् यात्रिकाणां वस्तूनि अपि ऊढवान्। पूर्वं राहुल: ट्रैक्टरयानं चालयन् दृष्ट:।  कृषकैः सह सस्यानि अपि रोपितवान्। कदाचित् सः दिल्लीनगरे मोटरयान्त्रिकैः सह कदाचित् ट्रकचालकैः सह वार्तालापं कुर्वन् दृष्ट:। कदाचित् यूपीएसएसी-क्रीडायाः सज्जतां कुर्वतां छात्राणां मध्ये कदाचित् महाविद्यालयस्य भोजनालये भोजनं खादन् दृष्ट: आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्