Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभारती, उज्जयिनी इत्यस्य  तत्वावधाने अभियांत्रिकीमहाविद्यालये जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत्। सम्मेलने नगरस्य  सर्वे संस्कृतज्ञा:, संस्कृतानुरागिण: कार्यकर्तार: च उपस्थिता: आसन्। मुख्यातिथिरूपेण उपस्थित: मध्यक्षेत्रस्य संघटनमन्त्री श्रीप्रमोदपण्डितवर्य: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकं भारतीयस्य  रक्ते विद्यमानम् अस्ति प्रवहति। बहवः जनाः ये  संस्कृत वक्तुं समर्था: न सन्ति किन्तु ते संस्कृतम् अवगच्छन्ति अस्य तात्पर्यमिदम् अस्ति यत् संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरीकरणीयम् अस्ति। विशिष्टातिथिरूपेण महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य कुलपति: आचार्यविजयकुमार: सीजीवर्य: उपस्थितः आसीत्। महोदयेन उक्तं यत् संस्कृतभाषा भारतं पुनः विश्वगुरुरूपेण प्रतिस्थापयितुं  महत्वपूर्णां भूमिकां निर्वहति। भारतीयज्ञानपरंपराया: सम्प्रति संस्कृतमाध्यमेन संपूर्णविश्वे  प्रचार: प्रसार: च क्रियते। कालिदाससंस्कृतअकादम्या: निदेशक: डॉ.गोविंदगन्धेेवर्य: संस्कृतस्य  संवर्धनम् उन्नयनं तथा च तस्य प्रचारं प्रसारं कर्तुं  आवाहनं कृतवान्।सदैव कटिबद्ध: भूत्वा संस्कृतमाध्यमेन लोकस्य हितं कुर्वन्तु  इति तस्य चिन्तनम् आसीत्। कार्यक्रमस्य अध्यक्ष: अभियान्त्रिकी महाविद्यालयस्य  प्राचार्य: उक्तवान् यत् संस्कृतभाषायां निहितेन ज्ञानविज्ञानेन सामान्य जनानां परिचय: भवेत्  तथा जागरूकताभियानस्य आयोजनं करणीयम् इति। कार्यक्रमस्य संचालनं श्रीहेमंतपंड्यामहोदयेन आभारप्रदर्शनञ्च धर्मदासबैरागी विभागप्रमुखेन कृतम्। अस्मिन अवसरे छात्रै:  संस्कृतगीतं, संस्कृतनाटिका,  संस्कृतनृत्यम् प्रस्तुतम्। संस्कृतप्रदर्शनी अपि  प्रदर्शिता। कार्यक्रमे डॉ. उपेंद्रभार्गव:, डॉ.रमेशशुक्ल:,डॉ.मनोजद्विवेदी डॉ.दिनेश चौबे, डॉ.अमिताभ शुक्ल:, श्रीमुकेशभाला, श्रीसुभाष कुमावत: उपस्थिता: आसन्। 

वार्ताहर: -  डॉ.दिनेश चौबे, उज्जयिनी 

अद्यतनवार्ता

भारतम्

विश्वम्