Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदविभागस्य वरिष्ठाचार्य:  डॉ.संकल्पमिश्रमहोदय: राजस्थान सर्वकारस्य संस्कृतयुवप्रतिभा इति पुरस्काराय चयनित: जात:। अस्य मासस्य २९तमे दिनाङ्के जयपुरनगरे विरलामण्डपसभागारे  समायोज्यमाने संस्कृतदिवससमारोहे प्रदेशस्य शिक्षामन्त्रिणा संस्कृतयुवप्रतिभा-पुरस्कारः प्रदास्यते। अस्मिन् पुरस्कारे २१०००/ पुरस्कारराशि: प्रशस्तिपत्रं च दीयते। अयं पुरस्कारः प्रतिवर्षं संस्कृत भाषायां उत्कृष्टयोगदानार्थं युवविद्वद्भ्य: प्रदीयते। मिश्रमहोदयस्य अस्यां उपलब्धौ विश्वविद्यालयस्य कुलपतिः आचार्य: विजयकुमार: सीजीवर्य:, कुलसचिव: डॉ. दिलीपसोनीमहोदय:, प्राध्यापका: छात्रा: च शुभकामना: प्रदत्तवन्त:।

वार्ताहर: डॉ.दिनेश:चौबे , उज्जयिनी

अद्यतनवार्ता

भारतम्

विश्वम्