Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीस्थ: महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजनं जूनमासस्य चतुर्थे दिनाङ्के अभवत्। गुरुपूर्णिमाया: शुभावसरे आयोजिते कार्यक्रमे   मुख्यातिथिरूपेण केन्द्रीययसंस्कृतविश्वविद्यालयस्य कुलपतिचर: आचार्य: परमेश्वरनारायणशास्त्री, विशिष्टातिथिरूपेण संस्कृतविद्वान् आकाशवाण्या: प्रवाचक: आचार्य: बलदेवानन्दसागर: एवं च अध्यक्षत्वेन पाणिनिसंस्कृतविश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदय: उपस्थिता:।

विशिष्टातिथिरूपेण  समागत: संस्कृतमनीषी डॉ. बलदेवानन्दसागरमहोदय: उक्तवान् यत्  बुद्धिदानेन गुरुः सन्तापहारक:  सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूप: अस्ति यथा लोकेषु सर्वार्धप्रकाशकत्वात् सूर्यः प्रजानां प्राणस्वरूपः तथैव शिष्येषु कर्तव्याकर्तव्यस्य विवेकात्मक-बुद्धेराधानात् गुरुः सर्वार्थप्रकाशको वर्तते। कार्यक्रमे मुख्यातिथिरूपेण उपस्थित: आचार्य: परमेश्वरनारायण शास्त्रीवर्य: प्रोक्तवान् यत् आदिगुरु: भगवान शिव: वर्तते समस्तविद्यानां  प्रवर्तक: शिव: एव अस्ति पुराकाले गुरु-शिष्ययोः पिता-पुत्रवत् प्रगाढः पवित्रञ्च सम्बन्ध: आसीत्। नास्ति तत्त्वं गुरोः परम् । अतः समर्पणबुद्ध्याऽऽर्जवभावेन च सेवनीयाः सदा गुरवः। अतोऽध्यापिता ये शिष्याः गुरुं प्रति नाद्रियन्ते तेऽधीतविद्या अपि गुरोः कृपापात्राणि न भवन्ति। अध्यक्षरूपेणविराजमानेन आचार्यविजयकुमारमेनन्महोदयेन निगदितम् यत् गुरुः दोषान् दूरीकरोति गुरुरेव ज्ञान-विनय-संस्कार-सदाचारादीनाम् आधानं करोति। अतः शिष्याणां कृते सः सर्वस्वम्। अधिगतज्ञान-विज्ञान कौशलो गुरुः शिष्यान् ज्ञानविज्ञानादीन् नैपुण्येन तेषां जीवनं प्रकाशयति।

 संगोष्ठया द्वितीयसत्रे मुख्यवक्तृरुपेण विक्रमविश्वविद्यालयस्य कुलानुशासक: आचार्य:  शैलेन्द्रकुमारशर्ममहोदय:,  साहित्यविभागाध्यक्ष: डॉ.तुलसीदास परौहा, व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी, वेदविभागाध्यक्ष: डॉ संकल्पमिश्र:, योगविभागप्रमुख: डॉ.उपेन्द्रभार्गवमहोदय: च सत्रं संबोधितवन्त:। सत्रेऽस्मिन् शोधपत्राणां वाचनं  जातम्। कार्यक्रमेऽस्मिन् विविधानां संस्कृतसंस्थानाम् अध्यापकाः अधिकारिणः कर्मचारिण: छात्रा: शोधच्छात्रा: पत्रकारबान्धवा: नगरस्य  गणमान्यजना: च समुपस्थिताः आसन्।

अद्यतनवार्ता

भारतम्

विश्वम्