Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रेलमन्त्रालयस्य अनुसारम् अयोध्या-रेलस्थानकस्य पुनर्विकासः चरणद्वये क्रियते। २४० कोटिरूप्यकाणां व्ययेन अस्मिन् वर्षे डिसेम्बरमासस्य ३१ दिनाङ्कपर्यन्तं प्रथमचरणं सम्पन्नं भविष्यति । यस्मिन् स्थानकस्य क्षमता विद्यमानपञ्चसहस्रयात्रिकात् एकलक्षयात्रिकाणां कृते वर्धिता भविष्यति। अयोध्यायां भव्यं राममन्दिरं शीघ्रमेव सम्पन्नं भविष्यति। 22 जनवरी 2024 दिनाङ्के रामस्य अभिषेकः मन्दिरे भविष्यति। परदिने अर्थात् 23 जनवरीत: भक्ता: दर्शनं कर्तुं शक्नुवन्ति। प्राणप्रतिष्ठायाः भव्यकार्यक्रमं दृष्ट्वा भारतीयरेलमन्त्रालयेन अपि स्वस्य सज्जता आरब्धा अस्ति। मन्दिरस्य उद्घाटनसमये विशालजनसमूहस्य दृष्ट्या अयोध्यानगरं प्रति विशेषरेलयानानि अपि बृहत्प्रमाणेन योजितानि भविष्यन्ति। अयोध्यानगरं प्रति सप्ताहस्य कृते शताधिकानि विशेषयानानि चालयितुं शक्यन्ते इति मन्यते। 

अद्यतनवार्ता

भारतम्

विश्वम्