Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

लयस्य योगभवनस्य सभागारे अभवत्। कार्यक्रमे सारस्वतातिथिरूपेण अहिल्याविश्वविद्यालयस्य योगविभागाध्यक्ष डॉ.निशाजोशीमहोदया इंदौरनगरतः उपस्थिता आसीत्। महोदया श्रीमद्भगवदीतायाम्  कर्मण्येवाधिकारस्ते इति श्लोकादारभ्य कर्मयोग- ज्ञानयोग- संन्यासयोग- विषये  ज्ञानवर्धकं व्याख्यानं कृतवती। 

अत्र विशिष्टातिथिरूपेण सांचीबौद्धविश्वविद्यालयस्य योगविभागाध्यक्ष: डॉ. उपेन्द्रखत्रीमहोदय: उपस्थित: आसीत्। महोदय: प्राकृतिकम्, आधिकारिकम्, वैयक्तिकम्, सामाजिकञ्चेति अनुशासनस्य चतुर: प्रकारान् प्रतिपादितवान्। कार्यक्रमे वाचिकं स्वागतं प्रास्ताविकञ्च योगविभागप्रमुखेन डॉ. उपेन्द्रभार्गवमहोदयेन कृतम्। व्याख्यानकार्यक्रमे सामाजिका:, छात्रा:, शोधच्छात्राः, विश्वविद्यालयस्य आचार्या:, कर्मचारिण: अन्यजनाश्च उपस्थिता: आसन्। कार्यक्रमोऽयं   कुलसचिवस्य डॉ. दिलीपसोनीमहोदयस्य मार्गदर्शने  सञ्जात:। कार्यक्रमस्य सञ्चालनं सुश्रीईशापाटीदारमहोदया कृतवती। आभारप्रदर्शनं डॉ.वरुण आहुजामहोदयेन कृतम्। (वार्तासंयोजक: डॉ. दिनेश चौबे)

अद्यतनवार्ता

भारतम्

विश्वम्