Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली द्वारा सञ्चालितम् अनौपचारिकसंस्कृतशिक्षणयोजनान्तर्गतं जयपुरस्थ- सञ्जयशिक्षकप्रशिक्षणमहाविद्यालये नूतनसत्रस्य शुभारम्भ: शिक्षकदिवसावसरे संस्थाप्रमुखद्वारा अभवत्। केन्द्रीय-संस्कृत-विश्वविद्यालयस्य तत्त्वावधानेन सञ्चालिते अनौपचारिक संस्कृतशिक्षणकेन्द्रे विश्वसंस्कृतदिवस समारोहः अपि गतसप्ताहे समायोजितः आसीत्। तस्मिन् समारोहे विविधा: स्पर्धा: अपि सञ्जाता:। कार्यक्रमेस्मिन् प्रतिभागिभ्य: पुरस्कारवितरणमपि कृतम्। प्रास्ताविकोद्बोधने केन्द्रशिक्षकेण संस्कृतसस्य विषये अपि च संस्कृतस्य महत्त्वं प्रतिपादयन् प्रोक्तं यत् अधुना एतत् विश्व- संस्कृतदिनम् अथवा विश्वसंस्कृतदिवस: भारत सर्वकार यूनेस्को संस्था च मिलित्वा विश्वे सर्वत्र आयोज्येते । विश्वेस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् संस्कृतसप्ताह: आचर्यते । भारतस्य । विभिन्नेषु स्थानेषु संस्कृत प्रेमिणः संस्कृतदिनम् अथवा संस्कृतसप्ताहः अत्युत्साहेन आचरन्ति । पाठशालासु विश्वविद्यालयेषु संस्कृत प्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य संस्कृतदिवसस्य च विशिष्टम् आयोजनं भवति नाटकानि नृत्यानि, प्रदर्शन्यः पदयात्राः संस्कृतगीतानां गायनम् इत्यादयः प्रवृत्तयः आभारते भवन्ति । भारते वर्षस्य 365 दिनानि अपि संस्कृतदिनानि भवेयुः - श्रावण पूर्णिमा संस्कृतोत्सवस्य दिनम्। ततः पूर्वतनानि त्रीणि दिनानि अनन्तरीयाणि त्रीणि दिनानि च मेलयित्वा संस्कृत सप्ताहः आचरणीयः इति केन्द्रसवर्करिण उद्घोष्टम् अस्ति । यद्यपि भारते वर्षस्य ३६५ दिनानि अपि संस्कृत दिनानि भवेयुः तथापि अद्य सा स्थितिः नास्ति । आनेतव्या तादृशी परिस्थितिः इति उद्देशेन साङ्केतिक रूपेण संस्कृतदिनस्य सप्ताहस्य च आचरणं वयं कुर्मः । संस्कृतं समाजव्यापि भवेत् । लोक व्यवहारे आगच्छेत्। तदर्थं सर्वैरपि संस्कृतं स्वीयनित्य जीवने आचरणीयम् । कार्यक्रमस्य मुख्यातिथिः तथा महाविद्यालयस्य प्राचार्या डाॅ०-सुनीताभार्गवमहोदया प्रोक्तवती यत् विकासस्य मूलमन्त्रः संस्कृतं वर्तते । संस्कृतभाषा आधुनिक विज्ञानस्य आधारशिला अस्ति। संस्कृत भाषायाः विज्ञानेन तकनीक्या सह गहन सम्बन्धः वर्तते । गुरुत्वाकर्षणस्य सिद्धान्तः न्यूटनेन न अपितु सहस्र वर्षेभ्यः प्राक् महर्षिणा कणादैन प्रदत्तमासीत् । मनोविज्ञानं दर्शनं, गणितं योगः, आयुर्वेदः, अर्थशास्त्र, प्रबन्धनं, भूगोल विज्ञानं, पदार्थ विज्ञानम् इत्यादिकं सर्वमपि ज्ञानविज्ञान मस्माकं ऋषयः वैदिक साहित्ये संस्कृत शास्त्रेषु च अनादिकालात् लोक कल्याणार्थं प्रदत्तवन्तः । तेषु संस्कृतग्रन्थेषु विद्यमानस्य ज्ञानभण्डारस्य परिज्ञानायं सर्वैरपि संस्कृताध्ययनं करणीयम् । संस्कृतं केवलं भाषा न अपितु सम्पूर्णमपि जीवनदर्शनम् अस्ति। डॉ० महेशपारिक:संस्कृतस्य विषये स्वविचारान् प्रस्तुतवान् । तेनोक्तं यत् अस्माकं भारतीयपरम्परायां महर्षिः पतञ्जलिः शारीरिकस्वास्थ्यस्य कृते योगासनं, मानसिकस्वास्थ्यस्य कृते च ध्यानं प्राणायामञ्च शिक्षितवान्। डॉ०रतनभारद्वाज: अपि अस्मिन् कार्यक्रमे सारस्वतातिथित्वेन स्वीयोद्बोधने संस्कृतस्य दशा तथा दिशाविषये सर्वान् सम्बोधितवान्। समग्रकार्यक्रमस्य सञ्चालनं केन्द्रछात्रेण कुलदीपशर्मणा कृतम्। रश्मिशर्मा स्वागतगीतं तथा सोनूप्रजापति संस्कृतगीतं प्रस्तुतवती। अस्मिन् समये महाविद्यालयस्य शिक्षकेषु जी०एल० शर्मा, रीटा झाझरिया, श्वेताभार्गव:, कल्पना, ममता, डॉ० अञ्जनाग्रवाल, खुशहाल महाशय, कृपाशंकरसहित समस्त महाविद्यालयपरिवार: तथा छात्राध्यापकाश्चोपस्थिता: अभवन्। शान्तिपाठेन अस्य कार्यक्रमस्य परिपूर्तिरभवत्। वार्ताप्रेषक: - डॉ० महेशकुमारपारिक: 

अद्यतनवार्ता

भारतम्

विश्वम्