Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभारत्या: पश्चिममहाराष्ट्रप्रान्तेन सञ्चालिते सुभाषिताभियाने प्रान्तस्तरीया सुभाषित-पठनस्पर्धा १० डिसेंबर २०२३ इति दिनाङ्के भावे स्कूल पुणे इत्यत्र सम्पन्ना। पश्चिममहाराष्ट्रप्रान्तस्य सप्तभ्य: जनपदेभ्य: आगता: उपशतं छात्रा: तेषां शिक्षका: अभिभावका: एवमाहत्य उपद्विशतं जना: स्पर्धार्थम् उपस्थिता: आसन्।

स्पर्धाया: पारितोषिक-वितरणसमारम्भ: म.ए.सो.संस्थाया: प्र.ल.गावडे सभागृहे सम्पन्न:। अस्य कार्यक्रमस्य प्रमुखातिथि: आसीत् सुभाषितानुवादकसमूहस्य सदस्य: श्री.विष्णू एरंडेमहोदय:। प्रान्ताध्यक्ष: श्री.सतीश परांजपेमहोदय: कार्यक्रमस्य अध्यक्षस्थानम् अभूषयत्। सुभाषितशिक्षणप्रमुख: श्री.अभिजित्-तोडकर: तथा पुणेमहानगरप्रमुखा सौ.भक्ती-कापरेमहोदया अपि मञ्चे उपस्थितौ आस्ताम्।

कार्यक्रमस्य सूत्रसञ्चालनं श्री.गोपीनाथ-पालोदकर: कृतवान्। श्री.अभिजित्-तोडकरमहोदयेन सुभाषिताभियानस्य वृत्तकथनं कृतम्। पारितोषिकावल्या: वाचनं सौ.भक्ती-कापरे कृतवती। श्री.रामचंद्र शिधये, श्री.सतीश परांजपे, श्री.विष्णू एरंडे एतै: स्वमनोगतानि प्रकटितानि। अन्ते सौ.मनाली-सावळेमहोदयया कृतज्ञताज्ञापनं कृतम्। कार्यक्रमेऽस्मिन् विद्यार्थिभ्य: आहत्य ११५ जनपदस्तरीयाणि प्रान्तस्तरीयाणि च पारितोषिकाणि वितरितानि।

सौ. स्वाती देशपांडे, श्री.विजयकुमार काळेगोरे, सौ. सुविद्या लेले, सौ.ओजदा पोळ, सौ.अपर्णा शिंदे, सौ.कल्पना वसगडेकर, श्री.आशिष घोडके,श्री. रामचंद्र शिधये, सौ.रंजना दाते, श्री.अविनाश देशपांडे, श्री.माधव खेडकर, सौ.नम्रता पोतदार एतै: स्पर्धायां परीक्षकरूपेण योगदानं दत्तवन्त:। सौ.ऐश्वर्या जोशी, सौ.अमृता पांडे, श्री.निखिल बडवे, सौ.अपर्णा शिंदे, सौ.स्वाती देशपांडे एतै: कार्यक्रमस्य सुयोग्यं सञ्चालनार्थं भूरि सहकार्यं कृतवन्त:। श्री.शशिकांत शेंडे, श्री. आनंद सहस्रबुद्धे एताभ्यां स्पर्धाया: कृते समीचीना स्थानव्यवस्था, भोजनादिप्रबन्ध: सम्यक् दृष्टवन्त:।

अद्यतनवार्ता

भारतम्

विश्वम्