Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

११ सितम्बर २०२३ दिनाङ्के संजय-शिक्षक-प्रशिक्षण-महाविद्यालये २०२३-२४ तमस्य वर्षस्य सत्रस्य कृते नूतनसत्रस्य उद्घाटनकार्यक्रमस्य आयोजनम् अभवत्। कार्यक्रमे मुख्यातिथिरूपेण प्रो. देवेन्द्र-सिंह-शेखावत: शैक्षणिक डीन, एपेक्स विश्वविद्यालय:, जयपुरम्, तथा प्रो. देवाशीषगोस्वामी, एसोसिएट रजिस्ट्रार, एपेक्सविश्वविद्यालय:, जयपुरम् समुपस्थितौ। मान्या: अतिथय:,  केन्द्रशिक्षक: केन्द्रीयसंस्कृतविश्वविद्यालय: दिल्ली,अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य केन्द्राधिकारिणी प्राचार्य डॉ. सुनीता भार्गव:, डॉ. यशवंती गौड, डॉ. रीता झाझरिया च दीपप्रज्वालनेन कार्यक्रमस्यारम्भं कृतवन्त:। शिक्षाशास्त्रि-द्वितीयवर्षस्य प्रशिक्षणार्थी बैकुण्ठमिश्र:  मंगलाचरण कृतवान्। तदनु "अतिथि देवो भव" भारतीयपरम्परानुसारं अतिथीनां नवछात्राणां च तिलकं कृत्वा स्वागतगीतानि च गीत्वा स्वागतम् अभवत्। द्वितीयवर्षस्य छात्राः “गुरो: महिमा सर्वोपरि: वर्तते” इति प्रेरणादायकं गीतं प्रस्तुतवन्तः। महाविद्यालयस्य प्राचार्या डॉ. सुनीता भार्गवः अतिथिभ्यः पुष्पगुच्छं दत्त्वा स्वागतं कृत्वा नवीनप्रशिक्षुणां स्वागतं कृत्वा तेषां क्षमतां ज्ञात्वा स्वलक्ष्यं मनसि कृत्वा प्रगतेः मार्गे अग्रे गन्तुं मार्गं प्रशस्तवती। मुख्यातिथिः प्रो० देवेन्द्रसिंहशेखावतः महापुरुषाणां उदाहरणानि दत्त्वा उक्तवान् यत् जीवने अग्रे गन्तुं आत्म-अनुशासनं, अभ्यासः, ज्ञानं च आवश्यकम् अस्ति।सः 360 Growth and 180 Transformation विषये अवदत्। प्रो. देवशीषगोस्वामीवर्य: विवेकानन्दस्य शैक्षणिकसिद्धान्तानां विषये कथितवान् यत् सः कर्मयोगी कर्मविश्वासु च आसीत्। सोऽवदत् अस्माभिः शिक्षायाः माध्यमेन भारतस्य भविष्यं अधिकं सुवर्णमयं कर्तव्यम्। आचार्य: संस्कृतभाषायाः संरक्षणाय प्रचाराय च अस्माकं दायित्वं, संस्कृतस्य महत्त्वं च वर्णयित्वा प्रशिक्षकान् संस्कृतशिक्षणाय प्रेरितवान्। डॉ०श्वेताभार्गवः सफलतया कार्यक्रमस्य मञ्चनं कृतवती। कार्यक्रमस्य अन्ते डॉ. यशवन्ती गौरः उपस्थितानां सर्वेषां महाविद्यालयसदस्यानां हृदयेन अभिनन्दनं कृत्वा अस्य कार्यक्रमस्य सफलीकरणे प्रत्यक्षं परोक्षं च योगदानं दत्तवतां सर्वेषां प्रति आभारं प्रकटितम्।
प्रेषक: - डॉ० महेशपारिक:

अद्यतनवार्ता

भारतम्

विश्वम्