Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

श्रीसोमनाथसंस्कृतविश्वविद्यालयेन अस्मिन् वर्षे १७ तमः युवमहोत्सवः आयोजितः यस्मिन् विविधाः शैक्षणिकशारीरिकप्रतियोगिताः सुसम्पन्ना:। गुजरातराज्यस्य ३३ दलाः, प्रायः ७०० छात्राः च अस्मिन् युवमहोत्सवे भागं गृहीतवन्तः। पद्मश्रीडाह्याभाई शास्त्रीगुरुचरणानाम् आशीर्वादै:, श्रीसंतराममहाराजस्य सत्कृपया तथा प्रधानाचार्यस्य डॉ.अमृतलालभोगायतावर्यस्य समर्पितानां आचार्याणां च मार्गदर्शनेन नाडियादस्य ब्रह्मर्षिसंस्कृतमहाविद्यालयस्य  ३५ छात्राः अस्मिन् कार्यक्रमे भागं गृहीत्वा विशेषप्रस्तुतिं कृत्वा विविधप्रतियोगितासु १६ पदकानि प्राप्तवन्तः। एतेषु राहुलपालीवाल: व्यङ्ग्यचित्रस्पर्शायां स्वर्णपदकं प्राप्त्वान्। चेतनाशर्मा लक्षिकाव्यासः प्रियाजोशी चेत्येतासां महिलादलेन समग्रे गुजराते द्वितीयं स्थानं प्राप्तम्। स्थानं प्राप्तम्। सोमनाथविश्वविद्यालयेन चयनिता: ब्रह्मर्षिसंस्कृतमहाविद्यालयस्य चत्वारः छात्राः आगामिनि राष्ट्रियप्रतियोगितायां भागं ग्रहीष्यन्ति। ब्रह्मर्षिपरिवारद्वारा सर्वेभ्य: छात्रेभ्य: मार्गदर्शकाभ्यां श्रीपन्नालालव्यासाय श्रीप्रदीपभाईजोशीमहोदयाय च अभिनन्दनानि प्रदत्तानि।​

अद्यतनवार्ता

भारतम्

विश्वम्