Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य “ऑपरेशन सिन्दूर” इत्यस्य अनन्तरं सर्वत्र पाकिस्तानस्य अपमानं क्रियते। सर्वे भारतस्य सैन्यकार्यक्रमस्य प्रशंसाम् कुर्वन्ति। एतस्मिन् समये पाकिस्तानदेशः मिथ्याप्रचारे प्रवृत्तः अस्ति। महान्तं विजयं प्राप्तवान् इति अभिनयं कुर्वन् अस्ति। परन्तु एतेन मिथ्याप्रचारेण समग्रे विश्वे उपहास: एव भवति। वस्तुतः पाकिस्तानसेनायाः प्रमुखः फील्डमार्शल असीम मुनीरः उच्चस्तरीयरात्रिभोजनकार्यक्रमे पाकिस्तानस्य प्रधानमन्त्रिण: शाहबाजशरीफस्य कृते चित्रं उपहाररूपेण दत्तवान्। चित्रमिदं भारतविरुद्धं युद्धस्य इति कृत्वा दत्तमासीत् परन्तु तथ्यं भिन्नमासीत्। चित्रमिदं  चीनदेशस्य युद्धाभ्यासस्य अस्ति इति कथ्यते। इस्लामाबादनगरे विश्वे च जना: उपहासं कुर्वन्त: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्