अमेरिकीराज्यस्य टेक्सास्-राज्यस्य हिल् कण्ट्री-क्षेत्रे रात्रौ एव प्रचण्डवृष्ट्या विनाशः अभवत् । समाचारानुसारं मासेषु सामान्यतया दृश्यमानस्य अपेक्षया केवलं कतिपयघण्टासु एव अधिका वर्षा अभवत्, येन गुआडालूप्-नद्यां जलप्लावनम् अभवत् । तेन न्यूनातिन्यूनं १३ जनाः मृता:, तत्स्थाने आयोजितस्य ग्रीष्मकालीनशिबिरस्य २० तः अधिकाः बालिकाः लुप्ता:। आपदाप्रबन्धनदल: नौकया उदग्रयानेन च प्रबलधारायां अवरुद्धानां जनानां उद्धाराय प्रयत्नमान: अस्ति। केरविले-मण्डले रात्रौ १० इञ्च् परिमिता वर्षा अभवत् येन आकस्मिकजलप्लावनम् अभवत्, यस्मात् कारणात् नद्याः जलस्तरः सहसा वर्धितः । गुआडलूप्-नद्याः जलस्तरः केवलं घण्टाद्वये एव २२ पादपर्यन्तं वर्धितः। जलवर्धनं एतावत् शीघ्रं अभवत् येन जनै: अवगमनस्य अवसरः अपि न प्राप्त:। बहवः शवा: प्राप्ताः, परन्तु तेषां परिचयः अवशिष्ट:।