Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशस्य बाल्टिमोरनगरे फ्रांसिस स्कॉट की इति सेतुना सह नौकाया: सङ्घट्टनस्य अनन्तरं भारतीयदलस्य प्रशंसा क्रियते । अमेरिकादेशस्य राष्ट्रपति: बाइडेन चालकदलस्य प्रशंसाम् अकरोत्, भारतीयदलस्य सतर्कतया महती दुःखदघटना निवारिता इति स: अवदत्। परन्तु अमेरिकन-कम्पनी फॉक्सफोर्ड-कॉमिक्स् इत्यनेन भारतीयदलस्य आपत्तिजनकं कार्टुन्-व्यङ्ग्यचलचित्रं प्रकाशितं यस्मिन् चालकदलस्य भारतीयसदस्याः केवलं अन्तर्वस्त्रं धारयन्तः दर्शिताः सन्ति। ते आसन्नसंकटस्य विषये चिन्तिताः इव दृश्यन्ते। केचन जनाः भारतीयभाषायां अभद्रभाषणं कुर्वन्तः श्रूयन्ते । फॉक्सफोर्ड कॉमिक्स इत्यनेन सामाजिकमाध्यमेषु एतत् कार्टुन् प्रसारितं, तत्र लिखितम् यत्, "संघट्टनात् पूर्वं डाली-जहाजस्य मुद्रणम्" इति । इदं व्यङ्ग्यचलचित्रं सामाजिकमाध्यममञ्चे ’X’ इत्यत्र प्रसारित: अस्ति। ४० लक्षाधिकाः जनाः तत् दृष्टवन्तः, ४ लक्षाधिकाः जनाः पुनः ट्वीट् कृतवन्तः । परन्तु अस्य बहु आलोचना जायमाना अस्ति।

भारतीय अर्थशास्त्रज्ञः संजीवसान्यालेन उक्तं यत् नौकाया: नायक: भारतीयः नासीत्, अपितु बाल्टिमोरक्षेत्रस्य आसीत्। चालकदलेन पूर्वमेव अधिकारिभ्यः एतत् संकटं सूचितम् आसीत्, येन बहूनां प्राणाः रक्षिताः। मेरिलैण्डनगरस्य नगरपति: अपि भारतीयचालकदलं नायकत्वेन प्रशंसितवान् आसत् ।

अद्यतनवार्ता

भारतम्

विश्वम्