Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संयुक्तराष्ट्रसङ्घस्य महासभायां पाकिस्तानप्रतिनिधिः भारतविरुद्धं वक्तव्यं दत्तवान्। तस्य प्रत्युत्तररूपेण भारतस्य प्रतिनिधिः रुचिरा कम्बोजः अवदत् यत् सर्वेषु विषयेषु पाकिस्तानस्य वृत्तान्तः अत्यन्तं प्रश्नकारक: अस्ति। तत्र धर्माधारितहिंसाप्रकरणानि बहुधा भवन्ति। विश्वस्य कठिनसमये वयं शान्तिं आनेतुं प्रयत्नशीलाः स्मः। एतादृश्यां परिस्थितौ पाकिस्तानस्य वक्तव्यं शालीनतायाः विरुद्धम् अस्ति। तेषां स्वभावः अस्माकं प्रयत्नानाम् कृते विघ्नकारी भवितुम् अर्हति। भारतदेशः न केवलं हिन्दुधर्मस्य, बौद्ध-जैन-सिखधर्माणां च जन्मभूमिः अस्ति। इस्लाम- ईसाई- यहूदी-जरोस्थियनधर्माणां दुर्गः चापि अस्ति। तेषां धर्माणां जनाः चिरकालात् अत्र शरणं गृह्णन्ति। एतत् भारतस्य विविधताया: सर्वोत्कृष्टं प्रमाणम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्