Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरकोरियादेशे सत्ताधारिपक्षस्य पञ्चदिवसीयसमागमः प्रचलति। रविवासरे किम जोङ्ग उत्तरकोरियासेनायाः सेनापतिभिः सह मेलनं कृतवान्। अस्मिन् सत्रे सः अवदत् यत् राष्ट्रियसुरक्षायाः कृते अस्माकं सैन्यसज्जतां सुदृढां कर्तुं आवश्यकता वर्तते। उत्तरकोरियादेशस्य किम जोङ्ग इत्यनेन स्वसेनायाः कृते आदेशः दत्तः यत् यदि ते किमपि उत्तेजकं कार्यं कुर्वन्ति तर्हि अमेरिकां दक्षिणकोरियां च पूर्णतया नष्टं कुर्वन्तु। उत्तरकोरियादेशस्य माध्यमानां अनुसारं किम जोङ्ग राष्ट्रियसुरक्षां सुदृढां कर्तुं बलं दत्तवान्।

अद्यतनवार्ता

भारतम्

विश्वम्