Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गाजादेशे प्रचलताम् आक्रमणानां मध्ये प्रधानमन्त्री बेन्जामिन नेतन्याहू पूर्वस्मात् अपि अधिक: उग्र: जात: अस्ति। सः मन्यते यत् अन्ताराष्ट्रियं हस्तक्षेपं दृष्ट्वा इजरायलदेशस्य समीपे रफाहनगरे स्वस्य उद्देश्यं सम्पन्नं कर्तुं केवलं १ मासः अवशिष्टः अस्ति। राफाहनगरे अभियानं कृत्वा सः गाजाक्षेत्रे अन्येषां अवशिष्टानां हमास-आतङ्कवादिनाम् अपि निर्मूलनं कर्तुम् इच्छति। इदानीं तस्य समयसीमा निर्धारिता अस्ति। समाचारानुसारं प्रधानमन्त्रिणा नेतन्याहू इत्यनेन अद्यैव युद्धे सम्बद्धानां सैन्यपदाधिकारिणां कृते आदेशः दत्तः यत् गाजादेशस्य दक्षिणतमनगरे प्रचलत अभियानं मुस्लिमपवित्रमासात् रमजानमासात् पूर्वं सम्पन्नं करणीयम्। 

 

अद्यतनवार्ता

भारतम्

विश्वम्