संयुक्तराष्ट्रसङ्घस्य अन्ताराष्ट्रियपरमाणु-ऊर्जानिरीक्षणसंस्थायाः (IAEA) इरानस्य विषये आश्चर्यजनकं प्रतिवेदनं दत्तम् अस्ति। आईएईए-संस्थायाः अनुसारं इरान-देशेन परमाणुशस्त्राणि निर्मातुं पर्याप्तं यूरेनियमं सञ्चितम् अस्ति। अस्मिन् प्रतिवेदने इरान-देशाय तत्क्षणमेव स्वस्य परमाणु-अभिप्रायं परिवर्तयितुं, संस्थासर्वेक्षणे पूर्णतया सहकार्यं कर्तुं च आह्वानं कृतम् अस्ति। एतेन IAEA प्रतिवेदनेन सम्पूर्णे विश्वे आश्चर्यं व्याप्तमस्ति। अन्य: एक: सङ्केत: अस्ति यत् इरानदेशः अधुना एव स्वस्य अनेकक्षेत्रेषु स्वस्य वायुक्षेत्रं सहसा निरुद्धवान् अस्ति। एतादृशी स्थितिः प्रायः युद्धक्रीडायै, क्षेपणास्त्रपरीक्षार्थं अथवा प्रमुखसैन्यकार्यक्रमेभ्यः पूर्वं दृश्यते। इरान्-देशः क्षेपणास्त्रपरीक्षणस्य सज्जतां कुर्वन् अस्ति इति अपि समाचाराः प्राप्यन्ते, येन सः स्वस्य परमाणुक्षमतायाः विषये प्रमुखं पदानि स्वीकुर्यात् इति शङ्का अधिका सुदृढा भवति।