भारतेन ‘ऑपरेशन सिन्दूर’ इत्यस्य अन्तर्गतं स्वदेशीयाया: ‘आकाशवायुरक्षा प्रणाली’ इत्यस्या: उपयोगेन पाकिस्तानं पराजितम्। तदनन्तरं अस्याः व्यवस्थायाः विश्वे प्रशंसा आरब्धा अस्ति । ब्राजील्-देशेन एतस्याः प्रणाल्याः क्रयणस्य आधिकारिक-इच्छा प्रकटिता, अस्य अधिग्रहणस्य, स्थानीय-निर्माणस्य च कृते भारतेन सह वार्ता आरब्धा । विदेशमन्त्रालयस्य सचिवः पी. कुमारः पुष्टिं कृतवान् यत्, 'ब्राजीलदेशेन आकाशवायुरक्षाप्रणालीं क्रेतुं इच्छा प्रकटिता, भारतेन सह मिलित्वा तस्य निर्माणं कर्तुम् इच्छति। प्रधानमन्त्रिणः नरेन्द्रमोदिन: ब्राजील-भ्रमणकाले अस्मिन् विषये उच्चस्तरीय-वार्ता भविष्यति इति कथ्यते ।