केन्यादेशस्य राजधान्यां नैरोबीनगरे भयंकरी विमानदुर्घटना अभवत्, यस्मिन् ६ जनाः मृताः इति कथ्यते । मृतेषु २ वैद्यौ, २ परिचारिके, २ नागरिकौ च आसन्। केन्या नागरिकविमाननप्राधिकरणेन दुर्घटनायाः पुष्टिः कृता, वायुपथरुग्णवाहनं आवासीयक्षेत्रे स्थिते विद्यालये दुर्घटितम् आसीत्। दुर्घटनायाम् अनेकानि गृहाणि नष्टानि, अनेके जनाः व्रणीता: च। विद्यालयभवनं अपि ध्वस्तम् अभवत्।