Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यूएईदेशे BAPS द्वारा हिन्दुमन्दिरस्य निर्माणं सम्पन्नम् अस्ति। सर्वकारेण महन्तस्वामी महाराजस्य हिन्दूमन्दिरस्य उद्घाटनस्य अवसरे 'राज्य-अतिथिरूपेण' स्वागतं कृतम्। १४ फरवरी दिनाङ्के BAPS हिन्दुमन्दिरस्य उद्घाटनं महन्तस्वामीद्वारा भविष्यति। बीएपीएस हिन्दुमन्दिरं मध्यपूर्वीयप्रदेशे पारम्परिकहिन्दुवास्तुशैल्या पाषाणनिर्मितं प्रथमं मन्दिरं भविष्यति। अबु मुरेखानगरे स्थितम् एतत् भव्यं मन्दिरं भारतस्य यूएई-देशस्य च दृढमैत्रीं, सांस्कृतिकसौहार्दं, सहकार्यस्य च भावनां प्रकटीकरोति। २०१५ तमे वर्षे अबुधाबी-देशस्य युवराजः, यूएई-सशस्त्रसेनायाः सर्वोच्चसेनापतिः च शेख-मोहम्मद-बिन् जायेदनाह्या -इत्यनेन मन्दिरस्य निर्माणार्थं १३.५ एकर-भूमे: दानं कृतम् आसीत्। ततः २०१९ तमस्य वर्षस्य जनवरीमासे 'सहिष्णुतावर्षे' अपरं १३.५ एकरभूमिः दत्ता। मन्दिरस्य कृते आहत्य २७ एकरभूमिः उपहाररूपेण प्रदत्ता आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्