Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्ताने निर्वाचनप्रचारस्य वातावरणं शनैः शनैः जायमानमस्ति। निर्वासित: पूर्वप्रधानमन्त्री नवाजशरीफः पाकिस्तानम् आगत्य निर्वाचनप्रचारे सम्मिलितः अस्ति। २० दिसम्बर दिनाङ्के नवाजशरीफः दलस्य कार्यकर्तारं सम्बोधयन् भारतस्य प्रशंसाम् अकरोत्। शरीफः अवदत् यत् भारतदेश: चन्द्रं प्राप्तवान् अस्ति, पाकिस्तानदेशः अद्यापि भूमित: आरोहणार्थम् असमर्थः अस्ति। पूर्वं १९ दिसम्बर दिनाङ्के नवाजशरीफः पाकिस्तानस्य आर्थिकस्थितेः उल्लेखं कृत्वा स्वीकृतवान् यत् एतस्य उत्तरदायी भारतदेश: न, अमेरिका अपि न। पाकिस्तानस्य सत्ताधीशानां निर्णयैः देशस्य एतादृशी दुर्गति: अभवत्। 

अद्यतनवार्ता

भारतम्

विश्वम्